List of practice Questions

गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।
(अर्णवः जपाकुसुमं गृहीत्वा प्रविशति । तस्य पिता विज्ञानस्य प्राध्यापकः। सः पुस्तकपठने मग्नः। तस्य पार्वे उत्पीठिकायां सूक्ष्मेक्षिका वर्तते।) 
अर्णवः - पितः, अस्माकम् उद्यानाद् जपाकुसुमम् आनीतं मया। कियन्तः सूक्ष्माः तस्य परागकणाः। 
पिता - सूक्ष्मेक्षिकया पश्य, तेषां कणानां रचनाम् अपि द्रष्टुं शक्नोषि ! (अर्णवः तथा करोति ।)
पिता - किं दृष्टं त्वया ?
अर्णवः - पितः, अद्भुतं एतत्। अत्र परागकणस्य सूक्ष्माणि अङ्गानि दृश्यन्ते ।
पिता - अर्णव, एतानि पुष्पस्य अङ्गानि त्वं सूक्ष्मेक्षिकया द्रष्टुं शक्नोषि। परन्तु एतद् विश्वं परमाणुभ्यः निर्मितम्। ते परमाणवः तु सूक्ष्मेक्षिकया अपि न दृश्यन्ते ।
अर्णवः - परमाणुः नाम किम् ?
पिता - अस्तु। कथयामि। मुष्टिमात्रान् तण्डुलान् महानसतः आनय ।
अर्णवः - (तथेति उक्त्वा पाकगृहात् तण्डुलान् आनयति ।) स्वीकरोतु, तात ।

गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।
अस्ति एकं चम्पकं नाम अरण्यम्। अरण्ये चित्राङ्गो नाम मृगः एकाक्षो नाम काकश्च स्नेहेन निवसतः स्म। एकदा चित्राङ्गः वने भ्रमन् केनापि शृगालेन अवलोकितः । क्षुद्रबुद्धिः नाम सः शृगालः स्वार्थहेतुना मृगेण सह मित्रताम् ऐच्छत्। अस्तङ्गते सवितरि क्षुद्रबुद्धिः मृगेण सह मृगस्य निवासस्थानं गतः। मृगशृगालौ दृष्ट्वा काकोऽवदत्, "सखे चित्राङ्ग! कोऽयं द्वितीयः ?" मृगः अब्रूत, "जम्बूकोऽयम्। अस्मत्सख्यम् इच्छति।" काकः उपादिशत्, "अकस्मादागन्तुना सह मित्रता न युक्ता।" तदाकर्ण्य जम्बूकः सकोपम् आह, "मृगस्य प्रथमदर्शने भवानपि अपरिचितः एव आसीत्। यथायं मृगः मम बन्धुः तथा भवानपि।" मृगः अब्रवीत्, "अलं विवादेन । वयं सर्वे आनन्देन एकत्र निवसामः।" काकेनोक्तम्, "एवमस्तु ।"