List of practice Questions

गद्यांशः 
एकस्मिन् दिने आचार्यः शिष्यगणेन सह गङ्गास्नानार्थम् अगच्छत्। तदा मार्गे कोऽपि दरिद्रः मलिनकायः, जीर्णवस्त्रधारी मनुष्यः तस्य पुरतः आगच्छत्। तं दृष्ट्वा शिष्याः तम्, 'अपसर, अपसर' इति उच्चैः अवदन्। 
सः मनुष्यः अपृच्छत्- "अपसर, अपसर इति कं वदसि? शरीरं वा आत्मानं वा? आत्मा तु परमेश्वरस्य अंशः अतः सर्वेषां समानः एव। तथा च सर्वेषां शरीराणि पञ्चमहाभूतात्मकानि। तर्हि कथं तव शरीरं मम शरीराद् भिन्नम्, अहं च त्वद् भिन्नः?" वेदान्ततत्त्वस्य सारं तस्य मुखात् श्रुत्वा आचार्यः तं प्रणनाम। ज्ञानं तु कस्मादपि ग्राह्यम्। यस्माद् ज्ञानं लभते स गुरुरेव इति विचारेण आचार्यः तत्रैव 'मनीषापञ्चकम्' इति स्तोत्रं रचितवान्। 
एवम् आसेतुहिमाचलं पर्यटन् अद्वैत-सिद्धान्तस्य प्रचारम् अकरोत् सः। 
अष्टवर्षे चतुर्वेदी द्वादशे सर्वशास्त्रवित्। 
षोडशे कृतवान् भाष्यं द्वात्रिंशे मुनिरभ्यगात्॥ 
 

गद्यांशः 
किञ्चित्कालानन्तरं शृगालः मृगम् अवदत्, 'वनेऽस्मिन् एकं सस्यपूर्णक्षेत्रमस्ति। दर्शयामि त्वाम्।' तथा कृते मृगः प्रत्यहं तत्र गत्वा सस्यम् अखादत्। तद् दृष्ट्वा एकस्मिन् दिने क्षेत्रपतिना पाशः योजितः। तत्रागतः मृगः पाशैर्बद्धः। सः अचिन्तयत्, "इदानीं मित्राण्येव शरणं मम।" दूरात् तत् पश्यन् जम्बूकः मनसि आनन्दितः। सोऽचिन्तयत्, "फलितः मे मनोरथः। इदानीं प्रभूतं भोजनं प्राप्स्यामि।" मृगस्तं दृष्ट्वा अब्रवीत्, "मित्र, छिन्धि तावन्मम बन्धनम्। त्रायस्व माम्।" जम्बूको दूरादेवावदत्, "मित्र, दृढोऽयं बन्धः। स्नायुनिर्मितान् पाशानेतान् कथं वा व्रतदिवसे स्पृशामि ?" इत्युक्त्वा सः समीपमेव वृक्षस्य पृष्ठतः निभृतं स्थितः। 
प्रदोषकाले मृगमन्विष्यन् काकस्तत्रोपस्थितः। मृगं तथाविधं दृष्ट्वा स उवाच, "सखे! किमेतत्?" मृगेणोक्तम्, "सुहृद्वाक्यस्य अनादरात् बद्धोऽहम्। उक्तं च - 
सुहृदां हितकामानां यः शृणोति न भाषितम्। 
विपत् सन्निहिता तस्य सः नरः शत्रुनन्दनः॥" 
काकः अब्रूत, "स वञ्चकः क्वास्ते?" मृगेणोक्तम्, "मन्मांसार्थी तिष्ठत्यत्रैष।" काकः उक्तवान्, "उपायस्तावत् चिन्तनीयः।"