माध्यमभाषया सरलार्थं लिखत।
(ततः प्रविशति वैखानसः, अन्यौ तापसौ च) वैखानसः (राजानम् अवरुध्य) राजन्! आश्रममृगोऽयं, न हन्तव्यः, न हन्तव्यः। आशु प्रतिसंहर सायकम्। राज्ञां शस्त्रम् आर्तत्राणाय भवति न तु अनागसि प्रहर्तुम्। दुष्यन्तः प्रतिसंहृत एषः सायकः। (यथोक्तं करोति) वैखानसः राजन्! समिदाहरणाय प्रस्थिता वयम्।