दिए गए संस्कृत गद्यांशों में से किसी एक का संदर्भित हिंदी में अनुवाद कीजिए।
संस्कृत गद्यांश:
संस्कृतसाहित्यस्य आदिकवि: वाल्मीकि:, महाकवि:, कविकुलगुरु: कालिदास:, अन्ये च भारत-भारवि-भव भट्टारकयो महाकवय:।
गद्यांश का हिन्दी में अनुवाद कीजिए : लोकमान्य बालगङ्गाधरतिलको नाम मनीषी भारतीय स्वातन्त्र्ययुद्धस्य प्रमुखसेनानीष्वन्यतम आसीत् । बालः इति वास्तविकं तस्याभिधानम् । पितुरभिधानं गङ्गाधरः इति वंशश्च तिलकः एवञ्च 'बालगङ्गाधरतिलकः' इति सम्पूर्णभिधानं किन्तु 'लोकमान्य' विरुदेनासौ विशेषेण प्रसिद्धः ।
गद्यांश का हिन्दी में अनुवाद कीजिए : संस्कृतभाषा विश्वस्य सर्वासु भाषासु प्राचीनतमा विपुलज्ञान-विज्ञानसम्पन्ना सरला सुमधुरा हृद्या चेति सर्वैरपि प्राच्यपाश्चात्यविद्वद्भिरेकस्वरेणाङ्गीक्रियते । भारतीय-विद्याविशारदैस्तु संस्कृतं नाम दैवीवागन्वाख्याता - महर्षिभिः इति संस्कृतभाषा हि गीर्वाणवाणीति नाम्ना सश्रद्धं समाम्नाता ।
संस्कृतभाषा पुराकाले सर्वसाधारणजनानां वाग्व्यवहारभाषा चासीत् । तत्रेदं श्रूयते यत् पुरा कोऽपि नरः काष्ठभारं स्वशिरसि निधाय काष्ठं विक्रेतुमापणं गच्छति स्म । मार्गे नृपः तेनामिलदपृच्छच्च, भो ! भारं बाधति ? काष्ठभारवाहको नृपं तत्प्रश्नोत्तरस्य प्रसङ्गेऽवदत् – “भारं न बाधते राजन् यथा बाधति बाधते ।” अनेनेदं सुतरामायाति यत्प्राचीनकाले भारतवर्षे संस्कृतभाषा साधारणजनानां भाषा आसीदिति ।
कालिदासकाव्येषु अङ्गीरसः शृङ्गारोऽस्ति । तस्य पुष्ट्यर्थं करुणादयोऽन्ये रसाः अङ्गभूताः । रसानुरूपं क्वचित् प्रसादः क्वचिच्च माधुर्यं तस्य काव्योत्कर्षे साहाय्यं कुरुतः । वैदर्भी रीतिः कालिदासस्य वाग्वश्येव सर्वत्रानुवर्तते । अलङ्कार योजनायां कालिदासोऽद्वितीयः । यद्यपि उपमा कालिदासस्येत्युक्तिः उपमायोजनायामेव कालिदासस्य वैशिष्ट्यमाख्याति तथापि उत्प्रेक्षार्थान्तरन्यासादीनामलङ्काराणां विनियोगः तेनातीव सहजतया कृतः ।
त्रिसप्तत्यधिकषड्दशशततमे ख्रीष्टाब्दे (1873) अयं महाराष्ट्रे सत्यशोधक समाजनामकी संस्था संचरितवान्। नारीणां दलितानां चोद्धारायायमनेकाानि कार्याण्यकरोत्। भारतीयाः मानवाः सर्वे शिक्षिताः स्युः इति अस्य एतत् चिन्तनमासीत्।